Tuesday, 20 February 2024

कक्ष्या - VI पुनरावृत्तिः अभ्यासकार्यपत्रोत्तराणि २०.२.२४

 




१. अधोलिखितं संस्कृत-संवादस्य रिक्तस्थानानि मञ्जूषातः पदं चित्वा पूरयत। 

 रमनः      -      नमस्ते, प्रियमित्र! अहं विद्यालयं गच्छामि। किं त्वम् अपि चलसि?

सिद्धार्थः -        अवश्यम् अहं त्वया सह न चलामि 

रमनः     -       किं तव गृहे किम् अपि विशेषः कार्यक्रमः अस्ति

सिद्धार्थः -        आम्, मम गृहे भागवतकथायाः कार्यक्रमः अस्ति।

रमनः    -        भागवतकथा-श्रवणे अति आनन्दं भवति। 

मञ्जूषा -  आनन्दं, कार्यक्रमः, विशेषः, चलामि, चलसि

 

२. चित्राधारितं चत्वारि वाक्यानां रिक्तस्थानानि पूरयत- 

 

 

1)     चित्रे अनेके पशवः सन्ति।

2)     ते प्रसन्नाः सन्ति।

3)     अत्र एकं स्थातुं (बैठने के लिए) सुखासनम् अपि अस्ति।

4)     अत्र उच्चग्रीवः, उलूकः, चटकाः, सिंहः  च सन्ति।

     मञ्जूषा - उच्चग्रीवः, प्रसन्नाः, सुखासनम्, पशवः, सिंहः 

 

३. अधोदत्तं चित्रं दृष्ट्वा मंजूषायाः उचितशब्दं गृहीत्वा चत्वारि संस्कृतवाक्यानि रचयत।

 

 

मञ्जूषा - बालाः, आसने, उपविशन्ति, फलके, पाठयति, अध्यापिका, चित्रे, प्रसन्नाः।

1.      चित्रे बालाः आसने उपविशन्ति।

2.      अध्यापिका पाठयति।

3.      फलके किंचित् (कुछ) न अस्ति।

4.      अध्यापिका श्यापट्टे चित्रं दर्शयति।

४. संस्कृत-संवादस्य रिक्तस्थानानि मञ्जूषातः पदं चित्वा पूरयत। 

 

माता    -         पुत्र! किं त्वं भोजनं i खादसि? अथवा बहिः खादित्वा आगच्छसि?

पुत्रः     -         मातः अहं भवत्याः(आपके) हस्तनिर्मितं भोजनम् अवश्यं ii खादामि।

माता    -         अस्तु, एतत् तु अति उत्तमम् अस्ति। अहं तव कृते पनीर-पालक्यस्य शाकं 

iii पचामि

पुत्रः     -         एतत् तु माम् अति iv स्वादिष्टं प्रतीयते। पालक्ये लौहतत्त्वानि सन्ति। पनीरे 

प्रोटीन इति तस्य शक्तिः भवति।

मञ्जूषा - पचामि, खादसि, स्वादिष्टं, खादामि।

५. निम्नलिखित-रिक्तस्थानेषु मंजूषायाः उचित-अव्ययपदं चित्वा पूरयत।   

१. मेघाः उच्चैः गर्जन्ति।

२. तव पितामही शनैः शनैः चलति।

३. वायुः सर्वत्र अस्ति।

४. अस्माकं उपरि तृतीयतलः अस्ति।

 

मञ्जूषा -  उपरि, सर्वत्र, उच्चैः, शनैः शनैः

 

६. अधोलिखित-अंकानां स्थाने संस्कृतसंख्यां लिखत।

    १. सः 8 पुस्तकानि आनयति।   अष्ट      

    २. अहं 12 वर्षाणि अस्मि।   द्वादश


No comments:

Post a Comment

class 8 दीपकम्- संगच्छध्वम् संवदध्वम्

https://edpuzzle.com/media/69d524a06f0f5e7a27c64692