Wednesday, 22 February 2023

प्रश्नकोषस्य उत्तराः

 


प्रश्नकोशः

उद्यमेन हि सिध्यन्ति कार्याणि 

उत्तराः - 


अन्यस्मिन् अहनि मार्गे रविं दृष्ट्वा हरिः तम् अवदत् - मित्र! मया सह चल। आवां क्षेत्रे गोधूमस्य

बीजानि वपाव।” रविः आलस्येन अवदत् - “त्वं चल अहम् आगच्छामि।” हरिः एकाक्येव अगच्छत्।

रविः गृहं गत्वा अस्वपत्। 


एकपदेन उत्तरत 

  1. हरिः मार्गे कं दृष्ट्वा अवदत्?  रविम्

  2. कः एकाक्येव अगच्छत्? हरिः


पूर्णवाक्येन उत्तरत 

रविः आलस्येन किम् अवदत्? 

उ.- रविः आलस्येन अवदत् - “त्वं चल अहम् आगच्छामि।” हरिः एकाक्येव अगच्छत्। रविः गृहं गत्वा अस्वपत्। 


भाषिककार्यम् 

  1. ‘परिश्रमेण’ इत्यस्य विलोमपदं गद्यांशे किं प्रयुक्तम्? आलस्येन

  2. ‘दिने’ इत्यस्य पर्यायपदं किं प्रयुक्तम्?  अहनि



मम देशः महान्


परम् एतत् अस्माकं दौर्भाग्यम् अस्ति यत् अद्य देशे केचन जनाः निजस्वार्थाय देशस्य

उन्नतिमार्गे व्यवधानं जनयन्ति। केचन आतंकवादिनः अकारणैः निर्दोषान् जनान् हत्वा

आतंकं प्रसारयन्ति। 


एकपदेन 

  1. केचन जनाः किमर्थं देशोन्नतिमार्गे व्यवधानं जनयन्ति? निजस्वार्थाय

  2. के आतंकं प्रसायन्ति? आतंकवादिनः


पूर्णवाक्येन उत्तरत

आतंकवादिनः किम् कुर्वन्ति?

उ.- आतंकवादिनः अकारणैः निर्दोषान् जनान् हत्वा

आतंकं प्रसारयन्ति। 


भाषिककार्यम् 

  1. ‘सौभाग्यम्’ इत्यस्य विपर्ययपदं किम्? दौर्भाग्यम्

  2. ‘निर्दोषान् जनान्’ इत्यनयोः पदयोः विशेषणपदं किं प्रयुक्तम्? निर्दोषान्




No comments:

Post a Comment

class 8 दीपकम्- संगच्छध्वम् संवदध्वम्

https://edpuzzle.com/media/69d524a06f0f5e7a27c64692